📚 गीताविवृतिः (राघवेन्द्रतीर्थः) - अध्यायः १३
Page 1
Download 📥
________________ अर्जुन उवाच प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव ॥ १३.१॥ पूर्वषट्कद्वयोक्तार्थसङ्ग्रहपरोऽयमध्यायः । तथाहि । यत्प्रथमषट्के ’त्रैगुण्यविषया वेदा' (२.४६) इत्यादिना प्राचुर्येण ज्ञानसाधनमाषष्ठसमाप्तेरुक्तम्, यच्च तत्र द्वितीयेऽध्याये 'न त्वेवाहं' (२.१२) इत्यादिनाऽनादिनित्यत्वादिना जीवस्वरूपमुक्तम्, यच्च द्वितीयषट् भगवत्स्वरूपमुक्तम्, यदपि सप्तमे 'भूमिराप' (७.४) इत्यादिना क्षेत्रशब्दितं भगवदावासस्थानमुक्तम्, तद्विकीर्णतयोक्तं सर्वं बुद्धयारोहार्थं सङ्क्षिप्यास्मिन्नध्याये प्रश्नपूर्वकं प्रदर्श्यते ॥ प्रकृतिमित्यादिना । पुरुषं जीवम् । ज्ञानं ज्ञानसाधनम् ॥१३.१॥ श्रीभगवानुवाच इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते । एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ १३.२ ॥ ननु भगवत्स्वरूपज्ञानस्यैव पूर्वोक्तदिशा मुक्तिहेतुत्वात्त- त्स्वरूपोक्तिर्युक्ता । क्षेत्रस्वरूपं 'महाभूतानि ' (१३.६ ) इत्यादिना किमर्थमत्रोच्यत इति चेन्न । क्षेत्रज्ञत्वविशिष्ट- भगवज्ज्ञानोपयोगित्वात्क्षेत्रोक्तिरिति क्षेत्रोद्देशपूर्वं भगवतः क्षेत्रज्ञत्वमाह ॥ इदमिति । कौन्तेय इदं शरीरं अव्यक्तमहदहङ्कारादिकं भगवदावासस्थानत्वात् क्षीयते स्थीयतेऽत्र भगवतेति व्युत्पत्त्या क्षेत्रमित्यभिधीयते । एतदवव्यक्तादिकं क्षेत्रशब्दितं यो वेत्ति जानाति तं तद्विदः क्षेत्रविदः क्षेत्रज्ञमिति प्राहुरित्यर्थः । शरीरशब्दस्याव्यक्तादिपरत्वं १